विरामचिह्नस्य प्रयोगे सावधानता

Jump to navigation Jump to search

विरामचिह्नस्य प्रयोगे सावधानता

महोदय, भवतः कार्यम् अतीव प्रशंसनीयम् अस्ति। अथ कश्चन विषयोऽत्र निवेदितव्यो मया। प्रत्येके अनुवादितवाक्यांशे विरामचिह्नं यत् प्रयुज्यते भवता, तन्नापेक्षितम्। यथा 'अनाथपुटानि ।' इति न स्याद् 'अनाथपुटानि' इत्येव अलम्। यत्रापि आङ्ग्लवाक्ये '.' इति विरामचिह्नं स्यात् तत्र वयमपि संस्कृते तद्दातुम् अर्हामः। धन्यवादाः। प्रणामाः।

Hemant wikikosh1 (talk)06:57, 28 February 2013